Saturday, April 6, 2013

Sanskrit 'Tapasvini' Canto-4 (‘तपस्विनी’ महाकाव्यम्, चतुर्थ-सर्गः/ डॉ.हरेकृष्ण-मेहेरः)

(‘तपस्विनी’ महाकाव्यम्, चतुर्थ-सर्गः/ डॉ. हरेकृष्ण-मेहेरः/ 
Sanskrit Tapasvini-Kavya, Canto-4)

TAPASVINI      
Original Oriya Epic Poem  
By : Poet Gangadhara Meher  (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher  

Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007, 
ISBN: 978-81-7110-412-3.  First Edition  2012.]

= = = = = = = = = = = = = = = = = = 
Tapasvini  [Canto-4] 
= = = = = = = = = = = = = = = = = =   

[Canto-4 has been taken from pages 96-108 of my Sanskrit ‘Tapasvini’ Book.  
For Introduction, please see : ‘ Tapasvini Mahakavyam: Ekam Aalokanam’ 
= = = = = = = = = 

तपस्विनी (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४) 
सम्पूर्ण-संस्कृतानुवादः * डॊ. हरेकृष्ण-मेहेरः 

= = = = = = = = = 
चतुर्थः सर्गः  
= = = = = = = = =

मङ्गलं समागता सौम्याङ्गना
उषा व्याकोषारविन्द-लोचना
वैदेही-दर्शनाभिलाषं वहन्ती स्वहृदये ।
पल्लव-कर-द्वये
नीहार-मौक्तिक-प्रकरोपहारं दधाना
सती-निलय-बहिरङ्गणे विद्यमाना
अभाषत कोकिल-कण्ठ-स्वना सूनरी,
“ दर्शनं देहि सति ! प्रभाता विभावरी ॥” (१)

अरुण-काषायाम्बरम्,
स्मितं सुमनसां विकस्वरम्,
प्रशान्त-रूपं च स्वान्ते जनयन्ति प्रत्ययम् :
काऽपि योगेश्वरी तत्रागत्य स्वयम्
सुमधुर-वचनैः सान्त्वनां प्रदाय
समाकारयति दुःखराशि-प्रशमनाय ।
नवीन-जीवन-दानार्थं सा ध्रुवम्
विद्यते त्रिदिव-भुवनादवतीर्णा भुवम् ॥ (२)

सङ्गीतं गायति स्म समीरणः,
भृङ्गो वीणा-वादन-प्रवणः ।
सुरभिरवर्त्तत नर्त्तन-तन्मया
उषाया अनुज्ञया ।
वैतालिको भूत्वा कुम्भाट-विहङ्गः 
प्रारभत स्तुति-पठनम् । 
समागतो मागध-मुख्य-वेशः कलिङ्गः
प्रोवाच सुललित-मधुर-स्वनम्,
“ उत्तिष्ठ, सती-राज्याधीश्वरि ! 
प्रभाता विभावरी ॥” (३)

मुनि-वृन्द-वदनैः
समुच्चारितै-र्वेदस्वनैः
श्याम-वनं परिव्याप्तिमियाय ।
भिन्दानो विहायसमूर्ध्वं प्रासरत्
समुदात्त ओंकारः ।
वैकुण्ठाय तृप्तिं प्रदाय
किमनन्त-श्रुतिपथं प्राविशत्
वाणी-देव्या वीणा-झङ्कारः ?
वेलाक्रमेण काननमुज्ज्वलतामितम् ।
मन्त्र-बलैरिव बलं समुपचितम् ॥ (४)

समयेऽस्मिन् वर्णिनी
अनुकम्पा तपस्विनी
समुपेत्य जानकीं सतीम्
गम्भीरमभाषत भारतीम्, 
“ उत्तिष्ठ, अयि वैदेहि !
समागतास्त्येषा
सुकोमलाङ्गी उषा ।
दत्त्वा दर्शनं सन्तोषं तस्या विधेहि ।
तमसा खलु वर्त्तते
प्रतीक्षमाणा पथं ते
सकृत् सुखमवाप्तुं स्वके
समुपवेश्य त्वामङ्के ॥” (५)

सरोजिनी-हृद्गते
मृदुले तुषार-पृषते 
प्रतिबिम्बमिवाम्बर-मणेस्तपनस्य,
मूर्त्तिं वीर-रघुनन्दनस्य
चित्रितां विधाय स्वके
शोक-मुह्यमान-मानस-फलके,
शय्यासनात् समुत्थितवती
मैथिल-सुता सती ।
अनुकम्पायाः प्रणम्य चरणद्वयम्
उषायाः पद-द्वन्द्वमवन्दत सप्रश्रयम् ॥ (६)

सप्रशंसं तामशंसत् सती,
“ भद्रे ! संसारे विभाति भवती
ध्वान्त-विध्वंसन-दिनकरोदयाशंसिनी ।
आहरति ज्योतिर्निवहं
भवत्याः सुकोमलम्
श्रीपद-युगलम् ।
प्रपद्ये शरणमहं
तत्र दृढ़ाशाबन्धिनी ।
अयि शुभ्र-सुरभि-रसिके सुन्दरि  !
भवतु मङ्गल-विधायिनी रघुवंशिकोपरि ॥” (७)

यामिन्यन्ते समुत्क-चेतसा
आश्रमस्य धात्री
सुनिर्मल-गात्री
पवित्र-प्रवाहा तमसा
प्राङ्गणे प्रसून-प्रकरम्
समवकीर्य सादरम्,
परिषिच्य सुरभितं जलम्,
विरच्य तारकां प्रभातीं प्रदीपकं मङ्गलम्,
अभीक्ष्णं मीनेक्षणाभ्यां निरीक्षमाणा
आसीत् सीतायाः 
सत्या भूसुतायाः
शुभागमनं प्रतीक्षमाणा ॥ (८)

तापसकन्यानां समादर-वन्यया
प्लावनाद् विश्वधन्या साध्वीमणी जनक-तनया
सार्धमनुकम्पया स्नानाय
बहिरागत्य कुटिरादह्नाय
प्रयातवती तमसा-रयम् ।
तामुत्सङ्गे स्वकीये निधाय
तरङ्ग-शयौ प्रसार्य
तमसा समालिङ्गत् सप्रणयम् ॥ (९)

गिरया सुधा-मधुरया
सपरितोषमब्रवीत् सतीं स्वच्छ-रया,
“ अयि वत्से !
आशा मे नासीन् मानसे, 
प्रोज्झित-भोग-पिपासा भूसम्भूता 
राजरमा-हृदय-हारभूता
समादर-समेतमङ्के 
विहरिष्यति मामके ।
भाग्यवतीं मां वदिष्यन्ति जनाः
तव कारणादेव संसारे सप्रशंसा-रचनाः ॥ (१०)

भ्रामं भ्रामं वने वने
गण्ड-कुहकेषु न भ्रमन्त्यहं
विलङ्घ्य विविध-बाधा-निवहं
सुविमले मम जीवने ।
ध्वान्तं न दुःखं गणयन्ती
प्रकाशं न सुखं भावयन्ती
दूरमार्गमग्रे सरामि नम्रानना निरलसम् ।
विदधामि सार्थकतां जन्मनः
सन्तोषयन्ती नीर-दानैरात्मनः
सकल-कूल-सन्निवासिनां मानसम् ॥ (११)

मन्दाकिनी  गोदावरी चैते (१) 
तत्समस्त-गुणै-र्मत्सम्मिते वर्त्तेते ।
तथापि ताभ्यां समेधितं गौरवं
नितरां समवाप्य तावकम्
पावन-पदचिह्नमव्यय-वैभवं
शुभ्राङ्ग-सौरभं च देवत्व-प्रदायकम् ।
वाञ्छितमासीत् तद् द्वयं मम कृते,
लाञ्छितासं चेतसि तस्मादृते ॥ (१२) 

कृतवत्यासं शुभकर्म-निचयम्,
धर्मस्त्वामतः समानयद् यथासमयम् 
मम मर्माभिप्रायं विज्ञाय ।
लब्धमस्ति मया दुर्लभं धनम्,
करिष्यामि परितृप्ति-साधनम्
मदुत्सङ्गे निधाय
सम्बोधनमहम्
विधाय प्रत्यहम् ।
भविष्यति शरीर-सौरभं तावकम्
मज्जीवन-कालुष्य-विनाशकम् ॥ (१३)

मदुत्सङ्ग-केलि-लोलाः सारसाः
श्रेणि-संहता हंसाः,
चक्रवाक-दम्पतयः,
युगल-भाव-युक्ता बक-पङ्क्तयः
त्वत्पुण्यतनु-प्रक्षालन-पूतं तोयं मे पिवन्तः
स्थास्यन्ति सर्वे मदन्तिके जीवन्तः ।
कलरव-कैतवेन गायन्तस्तव कीर्त्तिचयम्
विधास्यन्ति मम श्रुति-सन्तोषं सातिशयम् ॥ (१४)

पवित्रीभवितुं पतिव्रता-तनुस्पर्शात्
बीरुद्-वसति-विरागाः
कुसुम-वर्गाश्चलित-दूर-मार्गाः
निमज्जिताः सन्तः
प्लवमाना धावन्तः
भृशमागत्य त्वदन्तिके भ्रमिष्यन्ति समन्तात् ।
अवगाहन-वेलायां मम पयसि
तान् पद्भ्यां कृपामयि ! नापाकरिष्यसि ॥ (१५) 

तीरे मदीये विन्यस्य पदद्वयम्
विहरिष्यसि वत्से ! सुखमयम्,
तद्व्याजेन देवद्युतिं वितीर्य भास्वराम् ।
समवाप्य तां विपिन-पादपाः
प्रोत्फुल्लावयवा विधृत-देव-दर्पाः
शान्तिं विधास्यन्ति नितराम् ।
रुची रुचिरा पाटला श्यामला
वर्त्स्यति पल्लवेषु सुचिरं सुविमला ॥” (१६)

जानक्या व्यक्तमकारि,
“अनाविलमिदं वारि
नारिकेल-नीर-सम्मितम्
माधुर्य-प्रपूरितम् ।
न खलु तन्नीरम्,
भाति जनन्याः प्रत्यक्षमेव क्षीरम् ।
पर्वत-वक्षोज-विनिःसृतमेतत्
प्रवहति पीयूष-निष्यन्दवत्
कृते मृत-कल्पायाः
कन्यकायाः सीतायाः ।
देशेऽस्मिन्नहो ! त्वमेव माता मे सदाशया
तमसामूर्त्ति-र्मद्वेदना-विदीर्ण-हृदया ॥ (१७)

छेद-भिन्नः पृष्ठदेशस्ते,
अपर-पार्श्वस्तु दृश्यते ।
तथापि सुतायाः सन्तोष-विधानाय त्वं
समुन्मील्य स्नेह-नयन-द्वन्द्वं
विन्यस्य वचः प्रीति-माधुर्यमयम्
रचयसि चाटुं सप्रणयम् ।
धन्यं धन्यं मातः ! हृदयं ते
मम दुःखातप-निमित्तं सैकतं वर्त्तते ॥ (१८)

श्रीराम-साम्राज्ये राजति या
जन-नेत्र-दूषिता
चिर-निर्वासिता
सीता सम्प्रति विद्यते,
सैव त्वदीये मते
स्वीय-पातिव्रत्य-धर्म-शक्त्या
स्थावर-जङ्गमान् सर्वाञ्जगति
पवित्रयितुं प्रभविष्यति ।
अवगम्यते सम्यग् जनन्या
निज-कन्याया वेदना ।
विभाति दग्ध-वदना कन्या
जननी-नयनयोश्चन्द्रानना ॥ (१९)

निश्चितं तव तीरम्
संवृत्तं मे शरण्यं सुचिरम् ।
विद्यते ममाशा शान्तिमये
त्वदीये पदारविन्द-द्वये ।
चराचर-सकलं
शून्यमेव यस्याः कृते,
भूमण्डले मात्रङ्क-मात्रं केवलं
समादर-निधानं तस्या वर्त्तते ।
जनयित्री यस्या रत्नगर्भा मेदिनी,
मार्गयिष्यति स्थानमन्यत् कथं वा नन्दिनी ?” (२०)

सुशीतलमनाविलम्
पवित्रं तमसायाः सलिलम्,
मुनिकन्यानां स्वभावस्तु तद्वत् ।
तरसा स्नेह-सरसा
प्रतिबिम्ब-व्यपदेशेन तमसा
तासामविकल-स्वरूपाऽभवत् ।
समालिङ्ग्य तासामङ्गैः साग्रहं सत्वरम् 
सन्निवेशयामास स्वीयं कलेवरम् ॥ (२१)

सन्ततं सीतान्तिकमास्थाय
नितरां समवलोकनाय
प्राप्य शुभावसरमनेनोपायेन सा,
बहुनेत्रवतीभूय बुद्धिमती
बहु-हृदयं बहु-मतिं लब्धवती
बहु-विग्रहेषु तमसा ।
समधर्मैः समगुणैश्च सम्मिल्य स्वान्तम्
समधिगच्छति बहुगुणं सन्तोषमत्यन्तम् ॥ (२२)

स्नानानन्तरं प्रत्यावृत्ताभिस्ताभिः
वाल्मीकि-पदयुग्मं वन्दितं समस्ताभिः ।
प्रदाय शुभाशीर्वादम्
प्रोवाच मुनिप्रवरो महामनाः,
“ ज्ञान-धनार्जने कृतसाधनाः
लभध्वं सफलताम् ।”
सादरमभाषत विशेषतः सीताम्, 
“ वीरप्रसू-र्भव त्वमप्रमादम् ॥” (२३)

“ वत्से ! विधेहि यत्नमेतदाश्रम-पादपानाम्
स्नेहश्रम-दानेन तनयोपमानाम् ।
तद्भावेन सम्भविष्यति ततः
तवानुभवः स्वभावतः, 
तनय-रत्नं जगति
कीदृशं दुर्लभं भवति ।
तव सर्वाभाव-पूरण-विधौ
स्थास्यति नियतमनुकम्पा त्वत्सन्निधौ ॥” (२४)

मुनिवरानुज्ञया चलितास्ततः समस्ताः
सरोज-सुकुमार-कर-कलित-कलसास्ताः ।
व्यराजत कन्यामण्डले जनकात्मजा-विभा
यथा स्फटिक-प्रकरे हीरक-प्रतिभा ।
उपवनाभिमुखं तत्पराः
अभवन् सर्वा अग्रसराः ।
समधिगत-तद्धनेन
समेधिता शोभा काननेन ॥ (२५)

निज-द्वारे विराजितायां
विदेहराज-सुतायां
वनलक्ष्मीः सा
समुल्लसित-चेतसा
विभाकर-कर-विभूषिता
मधुर-मधुक-दशना
पल्लवाधर-शोभित-स्मिता
मानसमाकर्षत् सादरं सुदर्शना ।
रक्तशाल्मली-सूनमर्घ्यमाद्यम्
ददौ दूर्वादल-तुषार-पटलं च पाद्यम् ॥ (२६)

दत्त-स्थलपद्मासना तस्यै स्वागतं मधुरम्
सारिकास्वर-व्याजेन व्याजहार प्रीतिपूरम् ।
शरत्-सरसी पयसि सरसं
विकास्य नव्यं तामरसं
यथा भृङ्गस्वरेण कलहंस-वधूं शंसति,
अब्रवीद् वनलक्ष्मीः,
“ सखि ! त्वच्चरणारुणे विराजति
प्रभाता मे खेद-तमिः ॥ (२७)

दिष्ट्या त्वां समधिगत्य
विहायस-प्रसूनं सत्यं संमत्य
नूनमहं संवृत्ता
निःसीमानन्दित-चित्ता ।
चित्रकूटोपत्यकायाम् 
सिद्धाराद्ध-दण्डकायाम्
अकूपार-पार-लङ्कायाम्
अशोक-वनिकायाम् 
पुरतो न्यस्य त्वामादर्शरूपां स्वयम्
चतुर्दश-वर्षाणि प्रीति-प्रतिमां व्यरचयम् ॥ (२८)

समारूढ़्अ-पुष्पक-विमाना
प्रत्यावृत्ता यदा गगनायने त्वम्,
पुष्प-करा तदाऽहं दण्डायमाना
मृग-लोचनाभ्यामूर्ध्वम्
सविषादं विलोकयन्ती
आसं मयूरी-स्वनैस्त्वामाहूतवती
सुदीर्घ-मार्गतः सादरम् ।
वचनं सख्याः संस्मृत्य मानसे
सखि ! कृत-पदार्पणा किमद्य विद्यसे 
एतावद्-दिवसानन्तरम् ? (२९)

अविषह्य विशेषं दीर्घ-विरहम् 
सखि ! तापसी-वेशमहम् 
अन्तिम-चिन्तया धारयन्ती
त्वदीय-हृदय-दर्पणे
प्रतिबिम्बं स्नेह-रसे निमज्जयन्ती
सहर्षं वृणोमि त्वामस्मिन् क्षणे ।
स्वीक्रियन्तां हार्दाः
मदीया धन्यवादाः ।
मन्मनोवाञ्छितं त्वया
यत् पूरितं श्रद्धया ॥ (३०)

सज्जन-सङ्गे समधिगते
सद्भावस्तु सुचिरमभङ्गो वर्त्तते
विहायसि स्थिरो नील-रङ्गो यथा ।
सज्जन-मित्रे समागते
मनोरथो न कदापि व्यर्थतां भजते,
तस्मादस्मि दर्शनं ते लब्धुं समर्था ।
सौभाग्यादेव लाभोऽयमवाप्यते,
सखि ! कृतास्म्यहं भाग्यवती भावेन ते ॥” (३१)

काननश्री-र्मधुमोहिनी सुखदा
विदेहजा-हृदये प्रबलं
विरह-दावानलं
समुपशमयितुं तदा
सञ्जाता मानसे प्रतीयमाना
कादम्बिनीव नवीना समुदीयमाना ।
अभाषत मिथिलेन्द्र-नन्दिनी,
“ प्रियसखि ! सुनिश्चितम्
संवृत्ताहं वन्दिनी
तव कारायामाजीवितम् ॥” (३२) ** 
= = = = = = = = 

पादटीका : 
(१) मन्दाकिनी = चित्रकूटस्य गिरिनदी । 
= = = = = 

(इति स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य 
तपस्विनी-महाकाव्यस्य 
श्रीहरेकृष्णमेहेर-कृत-संस्कृतानुवादे चतुर्थः सर्गः) । 
= = = = = = = 

[सौजन्यम् : 
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॊ. हरेकृष्ण-मेहेरः 
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्ति नगर, दिल्ली-११०००७, भारतम्. 
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = = = 

Tri-lingual Translations of Poet Gangadhara Meher’s Tapasvini Kavya 
By : Dr. Harekrishna Meher 
Hindi-English-Sanskrit Articles on Tapasvini Kavya : 
http://hkmeher.blogspot.in/2011/08/my-hindi-english-sanskrit-articles-on.html
* * * * 

No comments:

Post a Comment