Thursday, April 4, 2013

Sanskrit 'Tapasvini' Canto-3 (‘तपस्विनी’ महाकाव्यम्, तृतीय-सर्गः/ डॉ. हरेकृष्ण-मेहेरः)

(तपस्विनी महाकाव्यम्, तृतीय-सर्गः/डॉ. हरेकृष्ण-मेहेरः/

Sanskrit Tapasvini-Kavya, Canto-3)

TAPASVINI      
Original Oriya Epic Poem 
By : Poet Gangadhara Meher  (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher 

Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3.  First Edition  2012.]

= = = = = = = = = = = = = = = = = = = = =
Tapasvini [Canto-3] 
= = = = = = = = = = = = = = = = = =  = = =  

[Canto-3 has been taken from pages 81- 95 of my Sanskrit ‘Tapasvini’ Book.  
For Introduction, please see : ‘ Tapasvini Mahakavyam: Ekam Aalokanam’
 = = = = = = = = =

तपस्विनी (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः 

= = = = = = = = = = = = = = = 
तृतीयः सर्गः 
= = = = = = = = = = = = = = = 

भागीरथ्यास्तीरे यदा
वैदेहीं विहाय सौमित्रि-र्गतः,
परिव्याप्य ससिन्धु-वसुन्धरामासीत् तदा
विमल-व्योमतले द्योतो विवस्वतः ॥

त्रिदशालयेन यदि दृश्यते सा
श्रीराम-भार्याया निर्यातना पिशुना
लज्जा भविष्यतीति विचार्य चेतसा
धवला जवनिका सज्जितेव सहस्रांशुना ॥

रहस्यमेतद् विज्ञाय
बहिर्दर्शयितुं मिहिर-वंशदोषं विशेषेण
उत्थापिता पृथिवी-पृष्ठादह्नाय
सा जवनिका प्रदोषेण ॥

समाकर्ण्य शकुन्तानामाकारणम्
समागम्य व्योम-प्राङ्गणम्
एकस्याः पश्चादन्या अनेकाः
सम्मिलितास्तत्र तारकाः ॥

ताभिस्तदा व्यलोकि, चत्वरे प्रशस्ते
जनसङ्ग-विरहिते स्वयमास्ते
एकाकी श्रीरामचन्द्रः
विभाकर-कुलोद्भवो नरेन्द्रः
विषाद-परिलिप्त-लपनः
लोतकाप्लुत-लोचनः ॥

मानसे भावनासीद् रघुनन्दनस्य,
राजाधिकारस्तु महादासत्वस्य व्याजभूतः ।
समुन्नते पदेऽस्मिन् समासीनस्य
सारं श्रम एव प्रजापद-सेवायाः प्रभूतः ॥

यदा पुर-प्रजाभिः
शतशः सम्मिलिताभिः
मिथ्या वचनं कथ्यते,
मिथ्या एव तज्ज्ञात्वा
ता एव मानयित्वा
तत् सत्यं सत्यमिति गद्यते ॥

राज्ञः सुखं बलिर्भवति
प्रजानां शान्ति-यज्ञे स्वभावतः ।
दृढ-धर्म-रज्जुबद्धो नरपतिर्न पारयति
स्वकर्मणि पदमपि चलितुं पुरतः ॥

अभिषेको यः क्रियते
स प्रोक्षण-मात्रमेव लक्ष्यते ।
किमन्यद् वदिष्यामश्चामर-बीजनम्
विना मक्षिका-विताड़नम् ?

गीर्वाण-हृदयेऽपि सुखे नैराश्य-भावः
नावश्यं भवेदिति मन्यते ।
तत्-कारणादेव महीपति-र्महान् देवः
यशः-पीयूषं सेवते ॥

प्रजा-रुधिरं हि नीरबिन्दु-पटलम्,
सम्प्राप्य तुङ्गासनं भूपः
विधातुं प्रजानां सुमङ्गलम्
सञ्जायते जीमूत-स्वरूपः ॥

भिदुरं न वर्त्तते
सलिले भूमी-गते ।
परन्तु स्वत एव तत्
विद्यते वारिधरे शश्वत् ।
प्रचण्डतां नावहति प्रजा-कर-दण्डः,
नरेश्वर-करे तु भवति प्रचण्डः ॥

सौदामिनी-ज्वलनै-र्हृदयं नाम ज्वलतु,
अम्बुधरो बाध्य एव तोय-दानाय परन्तु ।
सुखं विसृज्य राजा तोषयेत् प्रजाजनम्,
तदैव स परम-पूजा-भाजनम् ॥

स्वर्गसोपानस्य समुच्छ्रित-शीर्षभूतम्
राजपदं यदा भवति भूवलये लक्ष्यच्युतम्,
तदा याति विनष्टतामितः
नरपतिस्तु गभीर-निम्न-पतितः ॥

धृत-कर-दण्डो मायाकारो यथा
समदृष्ट्या समभावेन राजत्व-रज्जौ सर्वथा,
ॠजुत्व-विलसितो नरपतिरयम्
न चिन्तयति स्वजीवित-विषयम् ॥

यदि मायाकारो रज्जौ
न्यस्य निजस्य पादौ सज्जौ
न चलिष्यति पुरतः समये,
तर्हि करतालि-सहितम्
उपहसिष्यन्ति जनाः कतिपये,
वाद्यकारस्तु भर्त्सयिष्यति तम् ॥

विना मैथिलीं प्रियतमां
सम्प्राप्य दारुणं विरहं
शिथिलीकृत-प्राणो यद्यहं
करिष्ये नो कार्यं स्विकम्,
मनुज-समाजो मां
धिक्‌करिष्यति समधिकम् ॥

वदिष्यन्ति जगज्जनाः
यत् कुलाङ्गारो रघुवंशे सम्भूतः
रामचन्द्रो निम्न-मनाः
विचार-कार्पण्याभिभूतः
राजपदं समुज्झितवान्
वधू-वशाद् वैराग्यवान् ॥

उत्तमो वानप्रस्थाश्रम-समाश्रयः,
परन्तु नैष मे प्रकृष्टः समयः ।
मत्कर्मणि प्रवर्त्तितुं भरतः
कथं वा भविष्यति सम्मतः ?

अङ्क-द्रव्ये प्रीति-ह्रासो जायते
प्रतिवासरं वारंवारं दर्शनात् ।
शून्याङ्के सम्प्राप्ते सति
हृदय-प्रीतिस्तथा वर्द्धते,
अङ्को यथा बहुगुणितो भवति
सव्येतर-पार्श्वे शून्य-योगात् ॥

स्थूलमपघनं नाम नामरं जगति,
केवलं मानसं ह्यमरं भवति ।
मनसि सङ्गो यद्यभङ्गो विद्यते,
तत् सुखं वै सुखमिति गद्यते ॥

पार्थिव-वैभव-सम्पन्नः
कनक-किरीट-बद्धः को वा जनः
चिरन्तनो मर्त्त्येऽस्मिन् वर्त्तते ?
यशांसि चापयशांसि नियतानि
काल-वशतां नाधिगतानि
तस्य प्रतिवादित्वं भजन्ते ॥

स्वभावतो जनाः सांसारिकाः
भवन्ति स्वर्ग-नरक-गति-निर्णायकाः ।
क्षुद्र-मनः समुपेक्ष्य जनरवं सर्वम्
काङ्क्षति सुखमनित्यं वास्तवम् ॥

सद्मनि सा न विद्यते,
परन्तु हृदय-प्रेम-सरोवरे विराजते
शतपत्र-कलिका प्रफुल्ल-लपना
मम प्रियतमा शोभना ।
रमते मम मानस-भ्रमरः
तत्र मकरन्दास्वाद-तत्परः ॥

अरे नयने ! वैकल्येन कथम्
सलिलं त्यजथः सव्यथम् ?
सरोवरे शुष्कत्वं प्राप्ते सति
पद्मिनी मे दोदुल्यमाना भविष्यति ॥

वक्षः ! प्रस्तर-सेतुबन्धीभूय त्वं हि
लोचन-जल-नालिकावरोधं विधेहि ।
नासानिल ! घनतां न भजतु प्रवाहस्ते,
मम प्राण-शरण्या कम्पिष्यते ॥

लक्ष्मणः समागमिष्यति
प्राणसङ्गिनी-वार्तां सर्वां वदिष्यति ।
श्रवणौ ! चञ्चलौ न भवतम्, श्रोष्यथः,
व्यथाजातं परिहरिष्यथः ॥ 

रे सन्तप्त-चर्म ! तव स्वेदबिन्दु-निचयं
नूनं नेष्यति विलयं
समीरणः समायाति प्रवहन्,
सन्ताप-निकृन्तनायाः
अरविन्द-सुगन्धायाः
शुभ-शरीर-सौरभं वहन् ॥

ब्रवीमि विषयमेकमपरम्
यूयं स्वान्तेन सार्धम्
ऐक्य-बद्धाः सर्वे निर्बाधम्
व्रजत हृदय-सरोवरम् ।
अशेष-दिवसान्यथ
रस-रङ्गेषु विलसिष्यथ ॥

तत्र वर्त्तते मम जीवन-सङ्गिनी
प्रफुल्ला नवीना राजीविनी,
यस्मिन् सुचिर-ज्योतिष्मान्
स्मरण-विवस्वान्
अविरतं विराजते,
कदापि नास्तं भजते ॥

मद्वचसा अयि रसने !
न रमस्व तत्र मज्जने ।
प्रजा-धनं भक्षितमस्ति त्वया ।
यद्धनेन त्वमसि पोषिता
तन्नाम्नि चलितुं नियता
न कदाचन चिन्ता कर्त्तव्या ॥

विधेयं लोके जन-कल्याणमभीष्टम्
इति हेतोरस्ति मज्जीवितमवशिष्टम् ।
अन्यथा किमु कृतं स्यात् पानम्
कुलिशं द्रवीकृत्य हविःसमानम् ?

प्रभाता भवतु तमस्वती,
शुक-सारिका-दम्पती
पिञ्जरतो बहिर्गमिष्यतः ।
मोचयिष्यामि तौ ।
त्वामुत्तेजयितुमुभौ
सीता-नाम न पुनरुच्चारयिष्यतः ॥

मृग-शावो गमिष्यति समीपं तस्याः
अलक्त-रञ्जित-पदायाः ।
लाक्षारस-धारा वर्त्तते सुलक्षिता
रङ्ग-पट्टरज्जु-पाशरूपा तस्य कण्ठश्रिता ॥

केकि-दम्पती निरतं विरुत्य
किमर्थं पुनः स्थास्यतः ?
स्वनमुच्चारयिष्यति भीमराजः कामनुकृत्य ?      
स निश्चितं प्रयातु ततः ॥

सङ्गीत-पारङ्गतायाः कण्ठ-सङ्गादृते
कथं वल्लकी गौरवं लप्स्यते ? 
तद् विज्ञाय भाग्य-दोषं मन्यमाना
तूष्णीं भविष्यति शून्य-स्वना ॥

ततो मुहूर्त्तं निमीलित-लोचनः
समारुह्य चिन्ता-शैल-शिखरम्,
व्यलोकयद् रघुकुल-नन्दनः
धावति काल-धारा भैरव-जवेन प्रखरम् ॥

तस्य गभीर-गर्भे लब्धोदयम्
तत्रैव चराचर-समस्तं याति विलयम् ।
क्षणं तिष्ठति कश्चिद् बुद्बुदवत्,
कोऽपि कतिपय-दिवसानि यावत् ॥

तत्प्रबल-तोयधारा-मध्ये स्वकं
समुत्थाप्य मस्तकं
गणं विपदां न गणयन्
सुविशालमम्बरं चुम्बन्
निश्चलः समुन्नतः
वर्त्तते कीर्त्ति-पर्वतः ॥

अद्रेः सानुदेशे ज्योतिर्मय-वेश-सज्जिताः
सती-महिलाः स्वस्व-पति-सहिताः
प्रपन्न-युगलभावा नन्दित-स्वान्तम्
सुखं विहरन्ति युगयुग-पर्यन्तम् ॥

बहवो महीपतयः
विराजन्ते बद्ध-पङ्क्तयः ।
तस्मिन् रत्न-सिंहासन-समासीनाः
निलिम्प-प्रसूनालङ्कारै-र्दीप्यमानाः ॥

पुण्य-वैभवं नियतम्
असाध्य-साधन-समधिगतम्
येषां तनु-तरण्यो वहन्ति,
कविजनाः सानुमत्सन्निवासिनः 
समागत्य मनस्विनः 
तान् करे धृत्वा नयन्ति ॥

अविचार्य धर्मं स्वकं
कतिपये दुराचाराः
समारुह्य पर्वतं बलपूर्वकं
लब्ध-कविजन-पवि-मुष्टि-प्रहाराः
विह्वल-चित्ताः स्थिताः
दृश्यन्ते चात्यन्त-व्यथिताः ॥

दुर्दशा-राशिं तेषां पश्यतः
यदा सहसोन्मीलितम्
श्रीरामस्य युगल-नयनम्,
समवलोकितं ततः
वसुन्धरा-भुवनम्
अन्धकारै-र्नीरन्ध्रमाच्छादितम् ॥

सन्ति समलङ्कृत-सुनील-पुष्कराः
तारकाः समुज्ज्वलास्या विभास्वराः ।
न विद्यते सुधानिधि-र्नायकः शुभ्रकायः,
सुखे तासां परन्तु नास्ति कोऽप्यन्तरायः ॥

हे तारकाः !  प्रोवाच सः,
अबद्धा यूयं प्रेम-कारायां चन्द्रमसः ।
अङ्गीकृत-विधि-विधाना निरलसाः
शिशुमारं भ्रमथ प्रणिहित-मानसाः ॥

प्रियविरह-व्यथाया दुर्विषहत्वेऽपि स्वयं
संसार-कृते विस्मृत्य तद्दुःख-निचयं
स्वस्व-कर्मानुसारं समस्ताः
वर्त्तध्वे ज्योति-र्वितरण-निरताः ॥

वाल्मीकि-मुन्याश्रमं
समुपेत्य शंतमं
सपदि दत्त युष्मदीयायाः
शिक्षां धर्म-दीक्षायाः ॥ 

मदीय-हृदय-कौमुदी प्रियसङ्गिनी
तत्रोपविश्य एकाकिनी
स्थास्यति मां ध्यायन्ती
लोतकोदकं पातयन्ती ॥ 

चक्रवाकी व्याकुलान्तःकरणा
रजनी-वेलायामस्यां चेत्
रोदन-रता भवेत्,
मम प्राणप्रिया करुणा-प्रवणा
सती लुप्त-चेतना
भविष्यति नावशिष्ट-जीवना ॥

प्रतिपादयिष्यथ सरोवरं प्रदर्श्य
निदर्शनं कुमुदिनी-वनस्य ।
अलब्धोदयेऽपि सन्निधौ
स्व-बान्धवे विधौ
भूत्वा तदविचलितम्
आत्मनो धारयत्येव जीवितम् ॥

पुनर्मिलन-विषयः
विषम-समस्येति न भाव्यः ।
द्वयो-र्हृदय-मिलनम्
भवति नितरां स्वान्त-मोहनम् ।
युष्माभि-र्ज्ञायत एव स्वयम्,
अथ बोधयिष्यथ सप्रत्ययम् ॥

विषयेऽस्मिन् नायास्यति तोयज-नयनायाः
सौविध्यावसरो द्विधा-भावनायाः ।
दयितायै निवेदयिष्यथ सर्वान्
मदीयान् हार्द-भावान् ।
यूयमवश्यं पश्यथ,
अतः साक्ष्यं दास्यथ ॥

गर्भे वल्लभायास्तस्याः पुनः
प्रवाहोऽस्ति सम्प्रविष्टो ममात्मनः ।
इत्थं कथिते सति सर्वथा
भविष्यति सा व्यर्थमिति वक्तुमसमर्था ॥

अनेन किं लाघवमासीत् समर्थम्
राघव-हृदय-स्पर्शनार्थम् ?
तारकाभि-र्निरीक्षितं मुधा
नयन-वर्त्मनि समानीय तिमिरं बहुधा ॥ 

यदि सद्गुणं न बुद्ध्वा गुणवतः
कश्चिद् दोष-दर्शन-दक्षो भवति सर्वतः,
दर्शिनस्तस्यासने समुन्नते
विधि-बिडम्बना-भोगः सम्भाव्यते ॥

ताराभि-र्भावितमासीत् स्वान्ते,
रामस्य दोषं दृष्ट्वा सन्तुष्टिं लप्स्यन्ते ।
परन्तु निरीक्ष्य हृदय-तुङ्गतां हन्त !
विनतोत्तमाङ्गा सर्वा निम्न-गतिमलभन्त ॥

दाशरथे-र्दुःखराशि-दर्शनासहन-प्रवणः
खेदखण्डित-हृदयो यामिनी-रमणः
तमस्वत्यां सत्यामुदियाय
पयःपारावारं विहाय ॥

जीवञ्जीवः समुदीर्य सोपहासं वचः
समाह्वयत् तदा चक्रवाकं प्रति,
मा शुचः, मा शुचः,
उपवासस्ते ललाट-पट्टे लिखितोऽस्ति ॥

कथं वा न कथयिष्यति तम् ?
दैवेन तद्वदनेऽस्ति पीयूषमावर्जितम् ।
परेषां विपत्तिं पश्यन्तः
कुर्वन्ति कर-तालिं सम्पत्तिवन्तः ॥

इतो विरहिणी
रघुवर-गृहिणी
दूरस्था प्रासादतो मणि-दीप्तिमतः
करीन्द्र-रदन-सुन्दर-सुखासन-सुख-भोगतः,
पर्णराजि-विनिर्मिते
कुटीरे  पूर्व-परिचिते
अजिनासने समासीना घटना-पङ्क्तिं सा
प्राक्तनीं चिन्तयति स्म चेतसा ॥

प्राणेश्वरस्य प्रणय-सरसं सम्भाषणं मधुमयं
तस्या हृदय-फोनोग्राफं प्रविश्य स्वयं
वितनोति स्म स्वनम्
वैशद्य-सम्पन्नम् ॥

समस्त-भीतिहरं रमणीयं सरलं
मरकताभं भुज-युगलं
दीप्यमानमदृश्यत मानस-ध्यान-विधौ
तस्या मस्तक-सन्निधौ ॥

समुज्झित-निद्रः सुमित्रा-नन्दनः
दौवारिकस्तदानीन्तनः
सङ्गी स्थितो यथा,
सन्दृश्यते तथा
तस्याः स्मरण-दर्पणे
अदूरे स निषङ्गधृक् तस्मिन् क्षणे ॥

सा दूरीकृतास्ति ताभ्याम्
स्वीय-वल्लभ-देवराभ्याम्,
एतच्चिन्तयन्त्याः सकलं
मलिनं तस्या लोचन-युगलं
सलिलानि तदास्रावयत्
तुषाराक्त-तामरसवत् ॥

खर्जूर-ग्राहिणो हस्तेनाघात-जर्जरः
वृक्षो विक्षतः खर्जूरः
निर्वचनं निश्चलं यथा
स्वरसं मुञ्चति,
क्षोभ-प्रहारैः सत्या अवस्था
तथा सञ्जाता सम्प्रति ॥

प्रियः प्रिया-भावमेवम्प्रकारं
प्रिया च प्रियभावं स्मारं स्मारं
दुःखासन-समासीनौ तौ
धृत्वा धैर्य-करवालम्
आस्तां दीर्घकालम्
रात्री-कर्तन-निरतौ ॥

आत्म-शीर्ष-श्रम-समुत्पन्नाः
स्वेदाः प्रवहन्तो निरर्गलम्,
विधौत-पक्ष्म-गुल्म-व्राता घनाः
प्लावयन्ति स्म तद्गण्ड-मण्डलम् ॥

उलूक-वेशा तमस्वती
क्रमशः कृश-प्राणा विरुतवती ।
शोणितैः प्लावयन्ती व्योमस्थानम्
अत्रायत पलायनोपायेन स्वात्मानम् ॥

प्रणयि-प्रणयिनी-चरणेषु तारकाः
एताः सकला विक्रीताहमिकाः,
प्रसून-रूपेण विच्युताः सत्यः
भूपतिताः शरणं तयोरीप्सितवत्यः ॥

शरण-वत्सलेन जानकीधवेन
अविधृत-कैतवेन
सुरक्षिता मर्यादा ।
कृतं वर-दानमथ,
शिरसि  स्थानमवाप्स्यथ
युग-युगान्तराणि सर्वदा ॥” * 
= = = = = = = 

(इति स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य
तपस्विनी-महाकाव्यस्य
श्रीहरेकृष्णमेहेर-कृत-संस्कृतानुवादे तृतीयः सर्गः)
= = = = = = = 

[सौजन्यम् :
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्ति नगर, दिल्ली-११०००७, भारतम्.
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = = =

Tri-lingual Translations of Poet Gangadhara Meher’s Tapasvini Kavya
By : Dr. Harekrishna Meher
Hindi-English-Sanskrit Articles on Tapasvini Kavya :
http://hkmeher.blogspot.in/2011/08/my-hindi-english-sanskrit-articles-on.html

* * * * 

No comments:

Post a Comment